|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.22. अध्यायः 022
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
कद्र्वा स्वपुत्रान्प्रति विनतया सह स्वस्य पणबन्धननिवेदनपूर्वकमुच्चैरश्रवसो वाले स्वाङ्गवेष्टनेन नैल्यसम्पादनचोदना॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`भीष्म उवाच।
विनता तु तथेत्युक्त्वा कृतसंशयना पणे।
कद्रूरपि तथेत्युक्त्वा पुत्रानिदमुवाच ह॥ 13-22-1(81827)
मया कृतः पणः पुत्रा मिथो विनतया सह।
उच्चैरश्रवसि गान्धर्वे तच्छृणुध्वं भुजङ्गमाः॥ 13-22-2(81828)
अब्रवं नैकवर्णं तं सैकवर्णमथाब्रवीत्।
जिता दासी भवेत्पुत्राः सा वाऽहं वा न संशयः॥ 13-22-3(81829)
एकवर्णश्च वाजी स चन्द्रकोकनदप्रभः।
साऽहं दासी भविष्यामि जिता पुत्रा न संशयः॥ 13-22-4(81830)
ते यूयमश्वप्रवरमाविशध्वमतन्द्रिताः।
सर्वश्वेतं वालधिषु वाला भूत्वाञ्जनप्रभाः॥ 13-22-5(81831)
सर्पा ऊचुः। 13-22-5x(6799)
निकृत्या न जयः श्रेयान्मातः सत्या गिरः शृणु।
आयत्यां च तदात्वे च न च धर्मोऽत्र विद्यते॥ 13-22-6(81832)
सा त्वं धर्मादपेतं वै कुलस्यैवाहितं तव।
निकृत्या विजयं मातर्मा स्म कार्षीः कथञ्चना॥ 13-22-7(81833)
यद्यधर्मेण विजयं वयं काङ्क्षामहे क्वचित्।
त्वया नाम निवार्याः स्म मा कुरुध्वमिति ध्रुवम्॥ 13-22-8(81834)
सा त्वमस्मानपि सतो विपापानृजुबुद्धिनः।
कल्मषेणाभिसंयोक्तुं काङ्क्षसे लोभमोहिता॥ 13-22-9(81835)
ते वयं त्वां परित्यज्य द्रविष्याम दिशो दश।
यत्र वाक्यं न ते मातः पुनः श्रोष्याम ईदृशम्॥ 13-22-10(81836)
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते॥ 13-22-11(81837)
कद्रूरुवाच। 13-22-12x(6800)
शृणोमि विविधा वाचो हेतुमत्यः समीरिताः।
वक्रमार्गनिवृत्त्यर्थं तदहं वो न रोचये॥ 13-22-12(81838)
न च तत्पणितं मन्दाः शक्यं जेतुमतोऽन्वथा।
जिते निकृत्या श्रुत्वैतत्क्षेमं कुरुत पुत्रकाः॥ 13-22-13(81839)
श्वोऽहं प्रभातसमये जिता धर्मेण पुत्रकाः।
शैलूषिणी भविष्यामि विनताया न संशयः॥ 13-22-14(81840)
इह चामुत्र चार्थाय पुत्रानिच्छन्ति मातरः।
सेयमीहा विपन्ना मे युष्मानासाद्य सङ्गताम्॥ 13-22-15(81841)
इह वा तारयेत्पुत्रः प्रेत्य वा तारयेत्पितॄन्।
मात्र चित्रं भवेकिञ्चित्पुनातीति च पुत्रकः॥ 13-22-16(81842)
ते यूयं तारणार्थाय मम पुत्रा मनोजवाः।
आविशध्वं हयश्रेष्ठं वाला भूत्वाऽञ्जनप्रभाः॥ 13-22-17(81843)
जानाम्यधर्मं सकलं विजिता विनता भवेत्।
निकृत्या दासभावस्तु युष्मानप्यवपीडयेत्॥ 13-22-18(81844)
निकृत्या विजयो वेति दासत्वं वा पराभवे।
उभयं निश्चयं कृत्वा जयो वै धार्मिको वरः॥ 13-22-19(81845)
यद्यप्यधर्मो विजयो युष्मानेव स्पृशेत्पुनः।
गुरोर्वचनमास्थाय धर्मो वा सम्भविष्यति'॥ ॥ 13-22-20(81846)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वाविंशोऽध्यायः॥ 22 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|